Mantra 1
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः। स सु॑गो॒पात॑मो॒ जनः॑ ॥
मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ । सः । सु॒ऽगो॒पात॑मः । जनः॑ ॥
Mantra 2
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम्। मरु॑तः शृणु॒ता हव॑म् ॥
य॒ज्ञैः । वा॒ । य॒ज्ञ॒ऽवा॒ह॒सः॒ । विप्र॑स्य । वा॒ । म॒ती॒नाम् । मरु॑तः । शृ॒णु॒त । हव॑म् ॥
Mantra 3
उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत। स गन्ता॒ गोम॑ति व्र॒जे ॥
उ॒त । वा॒ । यस्य॑ । वा॒जिनः॑ । अनु॑ । विप्र॑म् । अत॑क्षत । सः । गन्ता॑ । गोऽम॑ति । व्र॒जे ॥
Mantra 4
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु। उ॒क्थं मद॑श्च शस्यते ॥
अ॒स्य । वी॒रस्य॑ । ब॒र्हिषि॑ । सु॒तः । सोमः॑ । दिवि॑ष्टिषु । उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥
Mantra 5
अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि। सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥
अ॒स्य । श्रो॒ष॒न्तु॒ । आ । भुवः॑ । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । सूर॑म् । चि॒त् । स॒स्रुषीः॑ । इषः॑ ॥
Mantra 6
पू॒र्वाभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम्। अवो॑भिश्चर्षणी॒नाम् ॥
पू॒र्वीभिः॑ । हि । द॒दा॒शि॒म । श॒रत्ऽभिः॑ । म॒रु॒तः॒ । व॒यम् । अवः॑ऽभिः । च॒र्ष॒णी॒नाम् ॥
Mantra 7
सु॒भगः॒ स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑। यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥
सु॒ऽभगः॑ । सः । प्र॒ऽय॒ज्य॒वः॒ । मरु॑तः । अ॒स्तु॒ । मर्त्यः॑ । यस्य॑ । प्रयां॑सि । पर्ष॑थ ॥
Mantra 8
श॒श॒मा॒नस्य॑ वा नरः॒ स्वेद॑स्य सत्यशवसः। वि॒दा काम॑स्य॒ वेन॑तः ॥
श॒श॒मा॒नस्य॑ । वा॒ । न॒रः॒ । स्वेद॑स्य । स॒त्य॒ऽश॒व॒सः॒ । वि॒द । काम॑स्य । वेन॑तः ॥
Mantra 9
यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना। विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥
यू॒यम् । तत् । स॒त्य॒ऽश॒व॒सः॒ । आ॒विः । क॒र्त॒ । म॒हि॒ऽत्व॒ना । विध्य॑त । वि॒ऽद्युता॑ । रक्षः॑ ॥
Mantra 10
गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म्। ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥
गूह॑त । गुह्य॑म् । तमः॑ । वि । या॒त॒ । विश्व॑म् । अ॒त्रिण॑म् । ज्योतिः॑ । क॒र्त॒ । यत् । उ॒श्मसि॑ ॥