Mantra with Swara
आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑। प्रा॒चैर्दे॒वासः॒ प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒प्रियं॑ जोषयन्ते व॒राइ॑व ॥
आपः॑ । न । दे॒वीः । उप॑ । य॒न्ति॒ । हो॒त्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑तम् । यथा॑ । रजः॑ । प्रा॒चैः । दे॒वासः॑ । प्र । न॒य॒न्ति॒ । दे॒व॒ऽयुम् । ब्र॒ह्म॒ऽप्रिय॑म् । जो॒ष॒य॒न्ते॒ । व॒राःऽइ॑व ॥
Mantra without Swara
आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः। प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वराइव ॥
आपः। न। देवीः। उप। यन्ति। होत्रियम्। अवः। पश्यन्ति। विऽततम्। यथा। रजः। प्राचैः। देवासः। प्र। नयन्ति। देवऽयुम्। ब्रह्मऽप्रियम्। जोषयन्ते। वराःऽइव ॥
Ashtak » 1
Adhyay » 6
Varga » 4
Mantra » 2
