Mantra with Swara
स नो॑ नृ॒णां नृत॑मो रि॒शादा॑ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम्। तना॑ च॒ ये म॒घवा॑नः॒ शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय॑न्त॒ मन्म॑ ॥
सः । नः॒ । नृ॒णाम् । नृऽत॑मः । रि॒शादाः॑ । अ॒ग्निः । गिरः॑ । अव॑सा । वे॒तु॒ । धी॒तिम् । तना॑ । च॒ । ये । म॒घऽवा॑नः । शवि॑ष्ठाः । वाज॑ऽप्रसूताः । इ॒षय॑न्त । मन्म॑ ॥
Mantra without Swara
स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम्। तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥
सः। नः। नृणाम्। नृऽतमः। रिशादाः। अग्निः। गिरः। अवसा। वेतु। धीतिम्। तना। च। ये। मघऽवानः। शविष्ठाः। वाजऽप्रसूताः। इषयन्त। मन्म ॥
Ashtak » 1
Adhyay » 5
Varga » 25
Mantra » 4
