Mantra 1
उप॒ प्र जि॑न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑यः॒ सनी॑ळाः। स्वसा॑रः॒ श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती॑मु॒षसं॒ न गावः॑ ॥
उप॑ । प्र । जि॒न्व॒न् । उ॒श॒तीः । उ॒शन्त॑म् । पति॑म् । न । नित्य॑म् । जन॑यः । सऽनी॑ळाः । स्वसा॑रः । श्यावी॑म् । अरु॑षीम् । अ॒जु॒ष्र॒न् । चि॒त्रम् । उ॒च्छन्ती॑म् । उ॒षस॑म् । न । गावः॑ ॥
Mantra 2
वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो॑ न उ॒क्थैरद्रिं॑ रुज॒न्नङ्गि॑रसो॒ रवे॑ण। च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अहः॒ स्व॑र्विविदुः के॒तुमु॒स्राः ॥
वी॒ळु । चि॒त् । दृ॒ळ्हा । पि॒तरः॑ । नः॒ । उ॒क्थैः । अद्रि॑म् । रुज॑न् । अङ्गि॑रसः । रवे॑ण । च॒क्रुः । दि॒वः । बृ॒ह॒तः । गा॒तुम् । अ॒स्मे इति॑ । अह॒रिति॑ । स्वः॑ । वि॒वि॒दुः॒ । के॒तुम् । उ॒स्राः ॥
Mantra 3
दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः। अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ॥
दध॑न् । ऋ॒तम् । ध॒नय॑न् । अ॒स्य॒ । धी॒तिम् । आत् । इत् । अ॒र्यः । द॒धि॒ष्वः॑ । विऽभृ॑त्राः । अतृ॑ष्यन्तीः । अ॒पसः॑ । य॒न्ति । अच्छ॑ । दे॒वान् । जन्म॑ । प्रय॑सा । व॒र्धय॑न्तीः ॥
Mantra 4
मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत्। आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥
मथी॑त् । यत् । ई॒म् । विऽभृ॑तः । मा॒त॒रिश्वा॑ । गृ॒हेऽगृ॑हे । श्ये॒तः । जेन्यः॑ । भूत् । आदी॑म् । राज्ञे॑ । न । सही॑यसे । सचा॑ । सन् । आ । दू॒त्य॑म् । भृग॑वाणः । वि॒वा॒य॒ ॥
Mantra 5
म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान्। सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥
म॒हे । यत् । पि॒त्रे । ई॒म् । रस॑म् । दि॒वे । कः । अव॑ । त्स॒र॒त् । पृ॒श॒न्यः॑ । चि॒कि॒त्वान् । सृ॒जत् । अस्ता॑ । धृष॒ता । दि॒द्युम् । अ॒स्मै॒ । स्वाया॑म् । दे॒वः । दु॒हि॒तरि॑ । त्विषि॑म् । धा॒त् ॥
Mantra 6
स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो॑ वा॒ दाशा॑दुश॒तो अनु॒ द्यून्। वर्धो॑ अग्ने॒ वयो॑ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ॥
स्वे । आ । यः । तुभ्य॑म् । दमे॑ । आ । वि॒ऽभाति॑ । नमः॑ । वा॒ । दाशा॑त् । उ॒श॒तः । अनु॑ । द्यून् । वर्धः॑ । अ॒ग्ने॒ । वयः॑ । अ॒स्य॒ । द्वि॒ऽबर्हाः॑ । यास॑त् । रा॒या । स॒ऽरथ॑म् । यम् । जु॒नासि॑ ॥
Mantra 7
अ॒ग्निं विश्वा॑ अ॒भि पृक्षः॑ सचन्ते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः। न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥
अ॒ग्निम् । विश्वाः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । स॒मु॒द्रम् । न । स्र॒वतः॑ । स॒प्त । य॒ह्वीः । न । जा॒मिभिः॑ । वि । चि॒कि॒ते॒ । वयः॑ । नः॒ । वि॒दाः । दे॒वेषु॑ । प्रऽम॑तिम् । चि॒कि॒त्वान् ॥
Mantra 8
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑। अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥
आ । यत् । इ॒षे । नृ॒ऽपति॑म् । तेजः॑ । आन॑ट् । शुचि॑ । रेतः॑ । निऽसि॑क्तम् । द्यौः । अ॒भीके॑ । अ॒ग्निः । शर्ध॑म् । अ॒न॒व॒द्यम् । युवा॑नम् । सु॒ऽआ॒ध्य॑म् । ज॒न॒य॒त् । सू॒दय॑त् । च॒ ॥
Mantra 9
मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे। राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥
मनः॑ । न । यः । अध्व॑नः । स॒द्यः । एति॑ । एकः॑ । स॒त्रा । सूरः॑ । वस्वः॑ । ई॒शे॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । गोषु॑ । प्रि॒यम् । अ॒मृत॑म् । रक्ष॑माणा ॥
Mantra 10
मा नो॑ अग्ने स॒ख्या पित्र्या॑णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन्। नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या॑ अ॒भिश॑स्ते॒रधी॑हि ॥
मा । नः॒ । अ॒ग्ने॒ । स॒ख्या । पित्र्या॑णि । प्र । म॒र्षि॒ष्ठाः॒ । अ॒भि । वि॒दुः । क॒विः । सन् । नभः॑ । न । रू॒पम् । ज॒रि॒मा । मि॒ना॒ति॒ । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अधि॑ । इ॒हि॒ ॥