Mantra 1
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत्। सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥
प्र । म॒न्म॒हे॒ । श॒व॒सा॒नाय॑ । शू॒षम् । आ॒ङ्गू॒षम् । गिर्व॑णसे । अ॒ङ्गि॒र॒स्वत् । सु॒वृ॒क्तिऽभिः॑ । स्तु॒व॒ते । ऋ॒ग्मि॒याय॑ । अर्चा॑म अ॒र्कम् । नरे॑ । विऽश्रु॑ताय ॥
Mantra 2
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑। येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥
प्र । वः॒ । म॒हे । महि॑ । नमः॑ । भ॒र॒ध्व॒म् । आ॒ङ्गू॒ष्य॑म् । श॒व॒सा॒नाय॑ । साम॑ । येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । अर्च॑न्तः । अङ्गि॑रसः । गाः । अवि॑न्दन् ॥
Mantra 3
इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम्। बृह॒स्पति॑र्भि॒नदद्रिं॑ विद॒द्गाः समु॒स्रिया॑भिर्वावशन्त॒ नरः॑ ॥
इन्द्र॑स्य । अङ्गि॑रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा॑ । तन॑याय । धा॒सिम् । बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः । सम् । उ॒स्रिया॑भिः । वा॒व॒श॒न्त॒ । नरः॑ ॥
Mantra 4
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः॑ स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः। स॒र॒ण्युभिः॑ फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥
सः । सु॒ऽस्तुभा॑ । सः । स्तु॒भा । स॒प्त । विप्रैः॑ । स्व॒रेण॑ । अद्रि॑म् । स्व॒र्यः॑ । नव॑ऽग्वैः । स॒र॒ण्युऽभिः॑ । फ॒लि॒ऽगम् । इ॒न्द्र॒ । श॒क्र॒ । व॒लम् । रवे॑ण । दश॑ऽग्वैः ॥
Mantra 5
गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्धः॑। वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥
गृ॒णा॒नः । अङ्गि॑रःऽभिः । द॒स्म॒ । वि । वः॒ । उ॒षसा॑ । सूर्ये॑ण । गोभिः॑ । अन्धः॑ । वि । भूम्याः॑ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु॑ । दि॒वः । रजः॑ । उप॑रम् । अ॒स्त॒भा॒यः॒ ॥
Mantra 6
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑। उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥
तत् । ऊँ॒ इति॑ । प्रय॑क्षऽतमम् । अ॒स्य॒ । कर्म॑ । द॒स्मस्य॑ । चारु॑ऽतमम् । अ॒स्ति॒ । दंसः॑ । उ॒प॒ऽह्व॒रे । यत् । उप॑राः । अपि॑न्वत् । मधु॑ऽअर्णसः । न॒द्यः॑ । चत॑स्रः ॥
Mantra 7
द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः। भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसाः॑ ॥
द्वि॒ता । वि । व॒व्रे॒ । स॒ऽनजा॑ । सनी॑ळे॒ इति॒ सऽनी॑ळे । अ॒यास्यः॑ । स्तव॑मानेभिः । अ॒र्कैः । भगः॑ । न । मेने॒ इति॑ । प॒र॒मे । विऽओ॑मन् । अधा॑रयत् । रोद॑सी॒ इति॑ । सु॒ऽदंसाः॑ ॥
Mantra 8
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवैः॑। कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥
स॒नात् । दिव॑म् । परि॑ । भूम॑ । विरू॑पे॒ इति॒ विऽरू॑पे । पु॒नः॒ऽभुवा॑ । यु॒व॒ती इति॑ । स्वेभिः॑ । एवैः॑ । कृ॒ष्णेभिः॑ । अ॒क्ता । उ॒षाः । रुश॑त्ऽभिः । वपुः॑ऽभिः । आ । च॒र॒तः॒ । अ॒न्याऽअ॑न्या ॥
Mantra 9
सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसाः॑। आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥
सने॑मि । स॒ख्यम् । सु॒ऽअ॒प॒स्यमा॑नः । सू॒नुः । दा॒धा॒र॒ । शव॑सा । सु॒ऽदंसाः॑ । आ॒मासु॑ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति॑ । पयः॑ । कृ॒ष्णासु॑ । रुश॑त् । रोहि॑णीषु ॥
Mantra 10
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृताः॒ सहो॑भिः। पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥
स॒नात् । सऽनी॑ळाः । अ॒वनीः॑ । अ॒वा॒ताः । व्र॒ता । र॒क्ष॒न्ते॒ । अ॒मृताः॑ । सहः॑ऽभिः । पु॒रु । स॒हस्रा॑ । जन॑यः । न । पत्नीः॑ । दु॒व॒स्यन्ति॑ । स्वसा॑रः । अह्र॑याणम् ॥
Mantra 11
स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः। पतिं॒ न पत्नी॑रुश॒तीरु॒शन्तं॑ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ॥
स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ । पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥
Mantra 12
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म। द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः॒ शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ॥
स॒नात् । ए॒व । तव॑ । रायः॑ । गभ॑स्तौ । न । क्षीय॑न्ते । न । उप॑ । द॒स्य॒न्ति॒ । द॒स्म॒ । द्यु॒मान् । अ॒सि॒ । क्रतु॑ऽमान् । इ॒न्द्र॒ । धीरः॑ शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । नः॒ । शची॑भिः ॥
Mantra 13
स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय। सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
स॒ना॒य॒ते । गोत॑मः । इ॒न्द्र॒ । नव्य॑म् । अत॑क्षत् । ब्रह्म॑ । ह॒रि॒ऽयोज॑नाय । सु॒ऽनी॒थाय॑ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥