Mantra 1
नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः। वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥
नु । चि॒त् । स॒हः॒ऽजाः । अ॒मृतः॑ । नि । तु॒न्दते॑ । होता॑ । यत् । दू॒तः । अभ॑वत् । वि॒वस्व॑तः । वि । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । रजः॑ । म॒मे॒ । आ । दे॒वऽता॑ता । ह॒विषा॑ । वि॒वा॒स॒ति॒ ॥
Mantra 2
आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति। अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
आ । स्वम् । अद्म॑ । यु॒वमा॑नः । अ॒जरः॑ । तृ॒षु । अ॒वि॒ष्यन् । अ॒त॒सेषु॑ । ति॒ष्ठ॒ति॒ । अत्यः॑ । न । पृ॒ष्ठम् । प्रु॒षि॒तस्य॑ । रो॒च॒ते॒ । दि॒वः । न । सानु॑ । स्त॒नय॑न् । अ॒चि॒क्र॒द॒त् ॥
Mantra 3
क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः। रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥
क्रो॒णा । रु॒द्रेभिः॑ । वसु॑ऽभिः । पु॒रःऽहि॑तः । होता॑ । निऽस॑त्तः । र॒यि॒षाट् । अम॑र्त्यः । रथः॑ । न । वि॒क्षु । ऋ॒ञ्ज॒सा॒नः । आ॒युषु॑ । वि । आ॒नु॒षक् । वार्या॑ । दे॒वः । ऋ॒ण्व॒ति॒ ॥
Mantra 4
वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभिः॒ सृण्या॑ तुवि॒ष्वणिः॑। तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥
वि । वात॑ऽजूतः । अ॒त॒सेषु॑ । ति॒ष्ठ॒ते॒ । वृथा॑ । जु॒हूभिः॑ । सृण्या॑ । तु॒वि॒ऽस्वणिः॑ । तृ॒षु । यत् । अ॒ग्ने॒ । व॒निनः॑ । वृ॒ष॒ऽयसे॑ । कृ॒ष्णम् । ते॒ । एम॑ । रुश॑त्ऽऊर्मे । अ॒ज॒र॒ ॥
Mantra 5
तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः। अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं॑ भयते पत॒त्रिणः॑ ॥
तपुः॑ऽजम्भः । वने॑ । आ । वात॑ऽचोदितः । यू॒थे । न । सा॒ह्वान् । अव॑ । वा॒ति॒ । वंस॑गः । अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाज॑सा । रजः॑ । स्था॒तुः । च॒रथ॑म् । भ॒य॒ते॒ । प॒त॒त्रिणः॑ ॥
Mantra 6
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः। होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥
द॒धुः । त्वा॒ । भृग॑वः । मानु॑षे॒षु । आ । र॒यिम् । न । चारु॑म् । सु॒ऽहव॑म् । जने॑भ्यः । होता॑रम् । अ॒ग्ने॒ । अति॑थिम् । वरे॑ण्यम् । मि॒त्रम् । न । शेव॑म् । दि॒व्याय॑ । जन्म॑ने ॥
Mantra 7
होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑। अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥
होता॑रम् । स॒प्त । जु॒ह्वः॑ । यजि॑ष्ठम् । यम् । वा॒घतः॑ । वृ॒णते॑ । अ॒ध्व॒रेषु॑ । अ॒ग्निम् । विश्वे॑षाम् । अ॒र॒तिम् । वसू॑नाम् । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥
Mantra 8
अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमहः॒ शर्म॑ यच्छ। अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥
अच्छि॑द्रा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । स्तो॒तृऽभ्यः॑ । मि॒त्र॒ऽम॒हः॒ । शर्म॑ । य॒च्छ॒ । अग्ने॑ । गृ॒णन्त॑म् । अंह॑सः । उ॒रु॒ष्य॒ । ऊर्जः॑ । न॒पा॒त् । पूः॒ऽभिः । आय॑सीभिः ॥
Mantra 9
भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्यः॒ शर्म॑। उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
भव॑ । वरू॑थम् । गृ॒ण॒ते । वि॒भा॒ऽवः॒ । भव॑ । म॒घ॒व॒न् । म॒घव॑त्ऽभ्यः । शर्म॑ । उ॒रु॒ष्य । अ॒ग्ने॒ । अंह॑सः । गृ॒णन्त॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥