Mantra with Swara
अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः। यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥
अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आपः॑ । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑तः । यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्रः॑ । श्नथि॑ता । हि॒र॒ण्ययः॑ ॥
Mantra without Swara
अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः। यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥
अध। ते। विश्वम्। अनु। ह। असत्। इष्टये। आपः। निम्नाऽइव। सवना। हविष्मतः। यत्। पर्वते। न। सम्ऽअशीत। हर्यतः। इन्द्रस्य। वज्रः। श्नथिता। हिरण्ययः ॥
Ashtak » 1
Adhyay » 4
Varga » 22
Mantra » 2
