Mantra with Swara
तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑। पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥
तम् । गू॒र्तयः॑ । ने॒म॒न्ऽइषः॑ । परी॑णसः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । पति॑म् । दक्ष॑स्य । वि॒दथ॑स्य । नु । सहाः । गि॒रिम् । न । वे॒नाः । अधि॑ । रो॒ह॒ । तेज॑सा ॥
Mantra without Swara
तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः। पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥
तम्। गूर्तयः। नेमन्ऽइषः। परीणसः। समुद्रम्। न। सम्ऽचरणे। सनिष्यवः। पतिम्। दक्षस्य। विदथस्य। नु। सहः। गिरिम्। न। वेनाः। अधि। रोह। तेजसा ॥
Ashtak » 1
Adhyay » 4
Varga » 21
Mantra » 2
