Mantra with Swara
व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् । तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥
व्यि॒ऽउच्छन्ती॑ । हि । र॒श्मिऽभिः॑ । विश्व॑म् । आ॒ऽभासि॑ । रो॒च॒नम् । ताम् । त्वाम् । उ॒षः॒ । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । कण्वाः॑ । अ॒हू॒ष॒त॒ ॥
Mantra without Swara
व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् । तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥
व्यिउच्छन्ती । हि । रश्मिभिः । विश्वम् । आभासि । रोचनम् । ताम् । त्वाम् । उषः । वसुयवः । गीःभिः । कण्वाः । अहूषत॥
Ashtak » 1
Adhyay » 4
Varga » 6
Mantra » 4
