Mantra 1
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥
अग्ने॑ । नय॑ । सु॒ऽपथा॑ । रा॒ये । अ॒स्मान् । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् । यु॒यो॒धि । अ॒स्मत् । जु॒हु॒रा॒णम् । एनः॑ । भूयि॑ष्ठाम् । ते॒ । नमः॑ऽउक्तिम् । वि॒धे॒म॒ ॥
Mantra 2
अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑। पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
अग्ने॑ । त्वम् । पा॒र॒य॒ । नव्यः॑ । अ॒स्मान् । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगाणि॑ । विश्वा॑ । पूः । च॒ । पृ॒थ्वी । ब॒हु॒ला । नः॒ । उ॒र्वी । भव॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥
Mantra 3
अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः। पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥
अग्ने॑ । त्वम् । अ॒स्मत् । यु॒यो॒धि॒ । अमी॑वाः । अन॑ग्निऽत्राः । अ॒भि । अम॑न्त । कृ॒ष्टीः । पुनः॑ । अ॒स्मभ्य॑म् । सु॒वि॒ताय॑ । दे॒व॒ । क्षाम् । विश्वे॑भिः । अ॒मृते॑भिः । य॒ज॒त्र॒ ॥
Mantra 4
पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान्। मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥
पा॒हि । नः॒ । अ॒ग्ने॒ । पा॒युऽभिः । अज॑स्रैः । उ॒त । प्रि॒ये । सद॑ने । आ । शु॒शु॒क्वान् । मा । ते॒ । भ॒यम् । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । नू॒नम् । वि॒द॒त् । मा । अ॒प॒रम् । स॒ह॒स्वः॒ ॥
Mantra 5
मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै। मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥
मा । नः॒ । अ॒ग्ने॒ । अव॑ । सृ॒जः॒ । अ॒घाय॑ । अ॒वि॒ष्यवे॑ । रि॒पवे॑ । दु॒च्छुना॑यै । मा । द॒त्वते॑ । दश॑ते । मा । अ॒दते॑ । नः॒ । मा । रीष॑ते । स॒ह॒सा॒ऽव॒न् । परा॑ । दाः ॥
Mantra 6
वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थम्। विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥
वि । घ॒ । त्वावा॑न् । ऋ॒त॒ऽजा॒त॒ । यं॒स॒त् । गृ॒ण॒नः । अ॒ग्ने॒ । त॒न्वे॑ । वरू॑थम् । विश्वा॑त् । रि॒रि॒क्षोः । उ॒त । वा॒ । नि॒नि॒त्सोः । अ॒भि॒ऽह्रुता॑म् । असि॑ । हि । दे॒व॒ । वि॒ष्पट् ॥
Mantra 7
त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र। अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥
त्वम् । ताम् । अ॒ग्ने॒ । उ॒भया॑न् । वि । वि॒द्वान् । वेषि॑ । प्र॒ऽपि॒त्वे । मनु॑षः । य॒ज॒त्र॒ । अ॒भि॒ऽपि॒त्वे । मन॑वे । शास्यः॑ । भूः॒ । म॒र्मृ॒जेन्यः॑ । उ॒शिक्ऽभिः । न । अ॒क्रः ॥
Mantra 8
अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ। व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
अवो॑चाम । नि॒ऽवच॑नानि । अ॒स्मि॒न् । मान॑स्य । सू॒नुः । स॒ह॒सा॒ने । अ॒ग्नौ । व॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । स॒ने॒म॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥