Mantra 1
समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित्। दू॒तो ह॒व्या क॒विर्व॑ह ॥
सम्ऽइ॑द्धः । अ॒द्य । रा॒ज॒सि॒ । दे॒वः । दे॒वैः । स॒ह॒स्र॒ऽजि॒त् । दू॒तः । ह॒व्या । क॒विः । व॒ह॒ ॥
Mantra 2
तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते। दध॑त्सह॒स्रिणी॒रिष॑: ॥
तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ । दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥
Mantra 3
आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न्। अग्ने॑ सहस्र॒सा अ॑सि ॥
आ॒ऽजुह्वा॑नः । नः॒ । ईड्यः॑ । दे॒वान् । आ । व॒क्षि॒ । य॒ज्ञिया॑न् । अग्ने॑ । स॒ह॒स्र॒ऽसाः । अ॒सि॒ ॥
Mantra 4
प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन्। यत्रा॑दित्या वि॒राज॑थ ॥
प्रा॒चीन॑म् । ब॒र्हिः । ओज॑सा । स॒हस्र॑ऽवीरम् । अ॒स्तृ॒ण॒न् । यत्र॑ । आ॒दि॒त्याः॒ । वि॒ऽराज॑थ ॥
Mantra 5
वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः। दुरो॑ घृ॒तान्य॑क्षरन् ॥
वि॒राट् । स॒म्राट् । वि॒भ्वीः । प्र॒ऽभ्वीः । ब॒ह्वीः । च॒ । भूय॑सीः । च॒ । याः । दुरः॑ । घृ॒तानि॑ । अ॒क्ष॒र॒न् ॥
Mantra 6
सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः। उ॒षासा॒वेह सी॑दताम् ॥
सु॒रु॒क्मे॒ इति॑ सु॒ऽरु॒क्मे । हि । सु॒ऽपेश॑सा । अधि॑ । श्रि॒या । वि॒ऽराज॑तः । उ॒षसौ॑ । आ । इ॒ह । सी॒द॒ता॒म् ॥
Mantra 7
प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी। य॒ज्ञं नो॑ यक्षतामि॒मम् ॥
प्र॒थ॒मा । हि । सु॒ऽवाच॑सा । होता॑रा । दैव्या॑ । क॒वी इति॑ । य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥
Mantra 8
भार॒तीळे॒ सर॑स्वति॒ या व॒: सर्वा॑ उपब्रु॒वे। ता न॑श्चोदयत श्रि॒ये ॥
भार॑ति । इळे॑ । सर॑स्वति । याः । वः॒ । सर्वाः॑ । उ॒प॒ऽब्रु॒वे । ताः । नः॒ । चो॒द॒य॒त॒ । श्रि॒ये ॥
Mantra 9
त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे। तेषां॑ नः स्फा॒तिमा य॑ज ॥
त्वष्टा॑ । रू॒पाणि॑ । हि । प्र॒ऽभुः । प॒शून् । विश्वा॑न् । स॒म्ऽआ॒न॒जे । तेषा॑म् । नः॒ स्फा॒तिम् । आ । य॒ज॒ ॥
Mantra 10
उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्य॑: सृज। अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥
उप॑ । त्मन्या॑ । व॒न॒स्प॒ते॒ । पाथः॑ । दे॒वेभ्यः॑ । सृ॒ज॒ । अ॒ग्निः । ह॒व्यानि॑ । सि॒स्व॒द॒त् ॥
Mantra 11
पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते। स्वाहा॑कृतीषु रोचते ॥
पु॒रः॒ऽगाः । अ॒ग्निः । दे॒वाना॑म् । गा॒य॒त्रेण॑ । सम् । अ॒ज्य॒ते॒ । स्वाहा॑ऽकृतीषु । रो॒च॒ते॒ ॥