Mantra with Swara
ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति। या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥
ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति । या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥
Mantra without Swara
एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति। यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥
एषः। वाम्। स्तोमः। अश्विनौ। अकारि। मानेभिः। मघऽवाना। सुऽवृक्ति। यातम्। वर्तिः। तनयाय। त्मने। च। अगस्त्ये। नासत्या। मदन्ता ॥ १.१८४.५
Ashtak » 2
Adhyay » 5
Varga » 1
Mantra » 5
