Mantra with Swara
अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः। अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥
अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः । अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥
Mantra without Swara
अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः। अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥
अस्मे इति। सा। वाम्। माध्वी इति। रातिः। अस्तु। स्तोमम्। हिनोतम्। मान्यस्य। कारोः। अनु। यत्। वाम्। श्रवस्या। सुदानू इति सुऽदानू। सुऽवीर्याय। चर्षणयः। मदन्ति ॥ १.१८४.४
Ashtak » 2
Adhyay » 5
Varga » 1
Mantra » 4
