Mantra with Swara
अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता। श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णै॑: ॥
अ॒स्मे इति॑ । ऊँ॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता । श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥
Mantra without Swara
अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता। श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णै: ॥
अस्मे इति। ऊँ इति। सु। वृषणा। मादयेथाम्। उत् पणीन्। हतम्। ऊर्म्या। मदन्ता। श्रुतम्। मे। अच्छोक्तिऽभिः। मतीनाम्। एष्टा। नरा। निऽचेतारा। च। कर्णैः ॥ १.१८४.२
Ashtak » 2
Adhyay » 5
Varga » 1
Mantra » 2
