Mantra with Swara
सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थ॒: क्रतु॑म॒न्तानु॑ पृ॒क्षे। वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥
सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । यन् । अ॒भि । क्षाम् । यत् । तिष्ठ॑थः । क्रतु॑ऽमन्ता । अनु॑ । पृ॒क्षे । वपुः॑ । व॒पु॒ष्या । स॒च॒ता॒म् । इ॒यम् । गीः । दि॒वः । दु॒हि॒त्रा । उ॒षसा॑ । स॒चे॒थे॒ इति॑ ॥
Mantra without Swara
सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथ: क्रतुमन्तानु पृक्षे। वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥
सुऽवृत्। रथः। वर्तते। यन्। अभि। क्षाम्। यत्। तिष्ठथः। क्रतुऽमन्ता। अनु। पृक्षे। वपुः। वपुष्या। सचताम्। इयम्। गीः। दिवः। दुहित्रा। उषसा। सचेथे इति ॥ १.१८३.२
Ashtak » 2
Adhyay » 4
Varga » 29
Mantra » 2
