Mantra with Swara
न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒: कुत॑श्चित्। लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
न॒दस्य॑ । मा॒ । रु॒ध॒तः । कामः॑ । आ । अ॒ग॒न् । इ॒तः । आऽजा॑तः । अ॒मुतः॑ । कुतः॑ । चि॒त् । लोपा॑मुद्रा । वृष॑णम् । निः । रि॒णा॒ति॒ । धीर॑म् । अधी॑रा । ध॒य॒ति॒ । श्व॒सन्त॑म् ॥
Mantra without Swara
नदस्य मा रुधतः काम आगन्नित आजातो अमुत: कुतश्चित्। लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥
नदस्य। मा। रुधतः। कामः। आ। अगन्। इतः। आऽजातः। अमुतः। कुतः। चित्। लोपामुद्रा। वृषणम्। निः। रिणाति। धीरम्। अधीरा। धयति। श्वसन्तम् ॥ १.१७९.४
Ashtak » 2
Adhyay » 4
Varga » 22
Mantra » 4
