Mantra with Swara
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑। ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ । ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊँ॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥
Mantra without Swara
ये चिद्धि पूर्व ऋतसाप आसन्त्साकं देवेभिरवदन्नृतानि। ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥
ये। चित्। हि। पूर्वे। ऋतऽसापः। आसन्। साकम्। देवेभिः। अवदन्। ऋतानि। ते। चित्। अव। असुः। नहि। अन्तम्। आपुः। सम्। ऊँ इति। नु। पत्नीः। वृषऽभिः। जगम्युः ॥ १.१७९.२
Ashtak » 2
Adhyay » 4
Varga » 22
Mantra » 2
