Mantra with Swara
त्वया॑ व॒यं म॑घवन्निन्द्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान्। त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । शत्रू॑न् । अ॒भि । स्या॒म॒ । म॒ह॒तः । मन्य॑मानान् । त्वम् । त्रा॒ता । त्वम् । ऊँ॒ इति॑ । नः॒ । वृ॒धे । भूः॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
Mantra without Swara
त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान्। त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥
त्वया। वयम्। मघऽवन्। इन्द्र। शत्रून्। अभि। स्याम। महतः। मन्यमानान्। त्वम्। त्राता। त्वम्। ऊँ इति। नः। वृधे। भूः। विद्याम। इषम्। वृजनम्। जीरऽदानुम् ॥ १.१७८.५
Ashtak » 2
Adhyay » 4
Varga » 21
Mantra » 5
