Mantra with Swara
जेता॒ नृभि॒रिन्द्र॑: पृ॒त्सु शूर॒: श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः। प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्य॑न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥
जेता॑ । नृऽभिः॑ । इन्द्रः॑ । पृ॒त्ऽसु । शूरः॑ । श्रोता॑ । हव॑म् । नाध॑मानस्य । का॒रोः । प्रऽभ॑र्ता । रथ॑म् । दा॒शुषः॑ । उ॒पा॒के । उत्ऽय॑न्ता । गिरः॑ । यदि॑ । च॒ । त्मना॑ । भूत् ॥
Mantra without Swara
जेता नृभिरिन्द्र: पृत्सु शूर: श्रोता हवं नाधमानस्य कारोः। प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥
जेता। नृऽभिः। इन्द्रः। पृत्ऽसु। शूरः। श्रोता। हवम्। नाधमानस्य। कारोः। प्रऽभर्ता। रथम्। दाशुषः। उपाके। उत्ऽयन्ता। गिरः। यदि। च। त्मना। भूत् ॥ १.१७८.३
Ashtak » 2
Adhyay » 4
Varga » 21
Mantra » 3
