Mantra with Swara
आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोम॒: परि॑षिक्ता॒ मधू॑नि। यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥
आ । ति॒ष्ठ॒ । रथ॑म् । वृष॑णम् । वृषा॑ । ते॒ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि । यु॒क्त्वा । वृष॑ऽभ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि॑ऽभ्याम् । या॒हि॒ । प्र॒ऽवता॑ । उप॑ । म॒द्रिक् ॥
Mantra without Swara
आ तिष्ठ रथं वृषणं वृषा ते सुतः सोम: परिषिक्ता मधूनि। युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥
आ। तिष्ठ। रथम्। वृषणम्। वृषा। ते। सुतः। सोमः। परिऽसिक्ता। मधूनि। युक्त्वा। वृषऽभ्याम्। वृषभ। क्षितीनाम्। हरिऽभ्याम्। याहि। प्रऽवता। उप। मद्रिक् ॥ १.१७७.३
Ashtak » 2
Adhyay » 4
Varga » 20
Mantra » 3
