Mantra with Swara
तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम्। अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥
तस्मि॑न् । आ । वे॒श॒य॒ । गिरः॑ । यः । एकः॑ । च॒र्ष॒णी॒नाम् । अनु॑ । स्व॒धा । यम् । उ॒प्यते॑ । यव॑म् । न । चर्कृ॑षत् । वृषा॑ ॥
Mantra without Swara
तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम्। अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥
तस्मिन्। आ। वेशय। गिरः। यः। एकः। चर्षणीनाम्। अनु। स्वधा। यम्। उप्यते। यवम्। न। चर्कृषत्। वृषा ॥ १.१७६.२
Ashtak » 2
Adhyay » 4
Varga » 19
Mantra » 2
