Mantra with Swara
मु॒षा॒य सूर्यं॑ कवे च॒क्रमीशा॑न॒ ओज॑सा। वह॒ शुष्णा॑य व॒धं कुत्सं॒ वात॒स्याश्वै॑: ॥
मु॒षा॒य । सू॒र्य॒ । क॒वे॒ । च॒क्रम् । ईशा॑नः । ओज॑सा । वह॑ । शुष्णा॑य । व॒धम् । कुत्स॑म् । वात॑स्य । अश्वैः॑ ॥
Mantra without Swara
मुषाय सूर्यं कवे चक्रमीशान ओजसा। वह शुष्णाय वधं कुत्सं वातस्याश्वै: ॥
मुषाय। सूर्यम्। कवे। चक्रम्। ईशानः। ओजसा। वह। शुष्णाय। वधम्। कुत्सम्। वातस्य। अश्वैः ॥ १.१७५.४
Ashtak » 2
Adhyay » 4
Varga » 18
Mantra » 4
