Mantra with Swara
त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः। सु॒प्र॒के॒तेभि॑: सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
त्वम् । पा॒हि॒ । इ॒न्द्र॒ । सही॑यसः । नॄन् । भव॑ । म॒रुत्ऽभिः॑ । अव॑यातऽहेळाः । सु॒ऽप्र॒के॒तेभिः॑ । स॒स॒हिः । दधा॑नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
Mantra without Swara
त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः। सुप्रकेतेभि: सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥
त्वम्। पाहि। इन्द्र। सहीयसः। नॄन्। भव। मरुत्ऽभिः। अवयातऽहेळाः। सुऽप्रकेतेभिः। ससहिः। दधानः। विद्याम। इषम्। वृजनम्। जीरऽदानुम् ॥ १.१७१.६
Ashtak » 2
Adhyay » 4
Varga » 11
Mantra » 6
