Mantra with Swara
येन॒ माना॑सश्चि॒तय॑न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम्। स नो॑ म॒रुद्भि॑र्वृषभ॒ श्रवो॑ धा उ॒ग्र उ॒ग्रेभि॒: स्थवि॑रः सहो॒दाः ॥
येन॑ । माना॑सः । चि॒तय॑न्ते । उ॒स्राः । विऽउ॑ष्टिषु । शव॑सा । शश्व॑तीनाम् । सः । नः॒ । म॒रुत्ऽभिः॑ । वृ॒ष॒भ॒ । श्रवः॑ । धाः॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । स्थवि॑रः । स॒हः॒ऽदाः ॥
Mantra without Swara
येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम्। स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि: स्थविरः सहोदाः ॥
येन। मानासः। चितयन्ते। उस्राः। विऽउष्टिषु। शवसा। शश्वतीनाम्। सः। नः। मरुत्ऽभिः। वृषभ। श्रवः। धाः। उग्रः। उग्रेभिः। स्थविरः। सहःऽदाः ॥ १.१७१.५
Ashtak » 2
Adhyay » 4
Varga » 11
Mantra » 5
