Mantra with Swara
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः। तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥
अर॑म् । कृ॒ण्व॒न्तु॒ । वेदि॑म् । सम् । अ॒ग्निम् । इ॒न्ध॒ता॒म् । पु॒रः । तत्र॑ । अ॒मृत॑स्य । चेत॑नम् । य॒ज्ञम् । ते॒ । त॒न॒वा॒व॒है॒ ॥
Mantra without Swara
अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः। तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥
अरम्। कृण्वन्तु। वेदिम्। सम्। अग्निम्। इन्धताम्। पुरः। तत्र। अमृतस्य। चेतनम्। यज्ञम्। ते। तनवावहै ॥ १.१७०.४
Ashtak » 2
Adhyay » 4
Varga » 10
Mantra » 4
