Mantra with Swara
इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या॑नाम्। क्रतु॑र्भवत्यु॒क्थ्यः॑॥
इन्द्रः॑ । स॒ह॒स्र॒ऽदाव्ना॑म् । वरु॑णः । शंस्या॑नाम् । क्रतुः॑ । भ॒व॒ति॒ । उ॒क्थ्यः॑ ॥
Mantra without Swara
इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम्। क्रतुर्भवत्युक्थ्यः॥
इन्द्रः। सहस्रऽदाव्नाम्। वरुणः। शंस्यानाम्। क्रतुः। भवति। उक्थ्यः॥
Ashtak » 1
Adhyay » 1
Varga » 32
Mantra » 5
