Mantra 1
स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः। स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑: ॥
स॒हस्र॑म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः॑ । नः॒ । स॒हस्र॑म् । इषः॑ । ह॒रि॒ऽवः॒ । गू॒र्तऽत॑माः । स॒हस्र॑म् । रायः॑ । मा॒द॒यध्यै॑ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । य॒न्तु॒ । वाजाः॑ ॥
Mantra 2
आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः। अध॒ यदे॑षां नि॒युत॑: पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥
आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः । अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥
Mantra 3
मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः। गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥
मि॒म्यक्ष॑ । येषु॑ । सुऽधि॑ता । घृ॒ताची॑ । हिर॑ण्यऽनिर्निक् । उप॑रा । न । ऋ॒ष्टिः । गुहा॑ । चर॑न्ती । मनु॑षः । न । योषा॑ । स॒भाऽव॑ती । वि॒द॒थ्या॑ऽइव । सम् । वाक् ॥
Mantra 4
परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः। न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥
परा॑ । शु॒भ्राः । अ॒यासः॑ । य॒व्या । सा॒धा॒र॒ण्याऽइ॑व । म॒रुतो॑ । मि॒मि॒क्षुः॒ । न । रो॒द॒सी इति॑ । अप॑ । नु॒द॒न्त॒ । घो॒राः । जु॒षन्त॑ । वृध॑म् । स॒ख्याय॑ । दे॒वाः ॥
Mantra 5
जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणा॑:। आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥
जोष॑त् । यत् । ई॒म् । अ॒सु॒र्या॑ । स॒चध्यै॑ । विसि॑तऽस्तुका । रो॒द॒सी । नृ॒ऽमनाः॑ । आ । सू॒र्याऽइ॑व । वि॒ध॒तः । रथ॑म् । गा॒त् । त्वे॒षऽप्र॑तीका । नभ॑सः । न । इ॒त्या ॥
Mantra 6
आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम्। अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥
आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा॑नः । शु॒भे । निऽमि॑श्लाम् । वि॒दथे॑षु । प॒ज्राम् । अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा॑न् । गाय॑त् । गा॒थम् । सु॒तऽसो॑मः । दु॒व॒स्यन् ॥
Mantra 7
प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑। सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥
प्र । तम् । वि॒व॒क्मि॒ । वक्म्यः॑ । यः । ए॒षा॒म् । म॒रुता॑म् । म॒हि॒मा । स॒त्यः । अस्ति॑ । सचा॑ । यत् । ई॒म् । वृष॑ऽमनाः । अ॒ह॒म्ऽयुः । स्थि॒रा । चि॒त् । जनीः॑ । वह॑ते । सु॒ऽभा॒गाः ॥
Mantra 8
पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान्। उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ ववृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥
पान्ति॑ । मि॒त्रावरु॑णौ । अ॒व॒द्यात् । चय॑ते । ई॒म् । अ॒र्य॒मो इति॑ । अप्र॑ऽशस्तान् । उ॒त । च्य॒व॒न्ते॒ । अच्यु॑ता । ध्रु॒वाणि॑ । व॒वृ॒धे । ई॒म् । म॒रु॒तः॒ । दाति॑ऽवारः ॥
Mantra 9
न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः। ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
न॒हि । नु । वः॒ । म॒रु॒तः॒ । अन्ति॑ । अ॒स्मे इति॑ । आ॒रात्ता॑त् । चि॒त् । शव॑सः । अन्त॑म् । आ॒पुः । ते । धृ॒ष्णुना॑ शव॑सा । शू॒शु॒ऽवांसः॑ । अर्णः॑ । न । द्वेषः॑ । धृ॒ष॒ता । परि॑ । स्थुः॒ ॥
Mantra 10
व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये। व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥
व॒यम् । अ॒द्य । इन्द्र॑स्य । प्रेष्ठाः॑ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒ऽम॒र्ये । व॒यम् । पु॒रा । महि॑ । च॒ । नः॒ । अनु॑ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु॑ । स्या॒त् ॥
Mantra 11
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः। एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः । आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥