Mantra 1
तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑। ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥
तत् । नु । वो॒चा॒म॒ । र॒भ॒साय॑ । जन्म॑ने । पूर्व॑म् । म॒हि॒त्वम् । वृ॒ष॒भस्य॑ । के॒तवे॑ । ऐ॒धाऽइ॑व । याम॑न् । म॒रु॒तः॒ । तु॒वि॒ऽस्व॒णः॒ । यु॒धाऽइ॑व । श॒क्राः॒ । त॒वि॒षाणि॑ । क॒र्त॒न॒ ॥
Mantra 2
नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ॑न्ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः। नक्ष॑न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत॑म् ॥
नित्य॑म् । न । सू॒नुम् । मधु॑ । बिभ्र॑तः । उप॑ । क्रीळ॑न्ति । क्री॒ळाः । वि॒दथे॑षु । घृष्व॑यः । नक्ष॑न्ति । रु॒द्राः । अव॑सा । न॒म॒स्विन॑म् । न । म॒र्ध॒न्ति॒ । स्वऽत॑वसः । ह॒विः॒ऽकृत॑म् ॥
Mantra 3
यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑। उ॒क्षन्त्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुव॑: ॥
यस्मै॑ । ऊमा॑सः । अ॒मृताः॑ । अरा॑सत । रा॒यः । पोष॑म् । च॒ । ह॒विषा॑ । द॒दा॒शुषे॑ । उ॒क्षन्ति॑ । अ॒स्मै॒ । म॒रुतः॑ । हि॒ताःऽइ॑व । पु॒रु । रजां॑सि । पय॑सा । म॒यः॒ऽभुवः॑ ॥
Mantra 4
आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑स॒: स्वय॑तासो अध्रजन्। भय॑न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ याम॒: प्रय॑तास्वृ॒ष्टिषु॑ ॥
आ । ये । रजां॑सि । तवि॑षीभिः । अव्य॑त । प्र । वः॒ । एवा॑सः । स्वऽय॑तासः । अ॒ध्र॒ज॒न् । भय॑न्ते । विश्वा॑ । भुव॑नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः॑ । प्रऽय॑तासु । ऋ॒ष्टिषु॑ ॥
Mantra 5
यत्त्वे॒षया॑मा न॒दय॑न्त॒ पर्व॑तान्दि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः। विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यन्ती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥
यत् । त्वे॒षऽया॑माः । न॒दय॑न्त । पर्व॑तान् । दि॒वः । वा॒ । पृ॒ष्ठम् । नर्याः॑ । अचु॑च्यवुः । विश्वः॑ । वः॒ । अज्म॑न् । भ॒य॒ते॒ । वन॒स्पतिः॑ । र॒थि॒यन्ती॑ऽइव । प्र । जि॒ही॒ते॒ । ओष॑धिः ॥
Mantra 6
यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन। यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥
यू॒यम् । नः॒ । उ॒ग्राः॒ । म॒रु॒तः॒ । सु॒ऽचे॒तुना॑ । अरि॑ष्टऽग्रामाः । सु॒ऽम॒तिम् । पि॒प॒र्त॒न॒ । यत्र॑ । वः॒ । दि॒द्युत् । रद॑ति । क्रिविः॑ऽदती । रि॒णाति॑ । प॒श्वः । सुधि॑ताऽइव । ब॒र्हणा॑ ॥
Mantra 7
प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः। अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥
प्र । स्क॒म्भऽदे॑ष्णाः । अ॒न॒व॒भ्रऽरा॑धसः । अ॒ला॒तृ॒णासः॑ । वि॒दथे॑षु । सुऽस्तु॑ताः । अर्च॑न्ति । अ॒र्कम् । म॒दि॒रस्य॑ । पी॒तये॑ । वि॒दुः । वी॒रस्य॑ । प्र॒थ॒मानि॑ । पौंस्या॑ ॥
Mantra 8
श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त। जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥
श॒तभु॑जिऽभिः । तम् । अ॒भिऽह्रु॑तेः । अ॒घात् । पूः॒ऽभिः । र॒क्ष॒त॒ । म॒रु॒तः॒ । यम् । आव॑त । जन॑म् । यम् । उ॒ग्राः॒ । त॒व॒सः॒ । वि॒ऽर॒प्शि॒नः॒ । पा॒थन॑ । शंसा॑त् । तन॑यस्य । पु॒ष्टिषु॑ ॥
Mantra 9
विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता। अंसे॒ष्वा व॒: प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥
विश्वा॑नि । भ॒द्रा । म॒रु॒तः॒ । रथे॑षु । वः॒ । मि॒थ॒स्पृध्या॑ऽइव । त॒वि॒षाणि॑ । आऽहि॑ता । अंसे॑षु । आ । वः॒ । प्रऽप॑थेषु । खा॒दयः॑ । अक्षः॑ । वः॒ । च॒क्रा । स॒मया॑ । वि । व॒वृ॒ते॒ ॥
Mantra 10
भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जय॑:। अंसे॒ष्वेता॑: प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥
भूरी॑णि । भ॒द्रा । नर्ये॑षु । बा॒हुषु॑ । वक्षः॑ऽसु । रु॒क्माः । र॒भ॒सासः॑ । अ॒ञ्जयः॑ । अंसे॑षु । एताः॑ । प॒विषु॑ । क्षु॒राः । अधि॑ । वयः॑ । न । प॒क्षान् । वि । अनु॑ । श्रियः॑ । धि॒रे॒ ॥
Mantra 11
म॒हान्तो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभि॑:। म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभि॒: सम्मि॑श्ला॒ इन्द्रे॑ म॒रुत॑: परि॒ष्टुभ॑: ॥
म॒हान्तः॑ । म॒ह्ना । वि॒ऽभ्वः॑ । विऽभू॑तयः । दू॒रे॒ऽदृशः॑ । ये । दि॒व्याःऽइ॑व । स्तृऽभिः॑ । म॒न्द्राः । सु॒ऽजि॒ह्वाः । स्वरि॑तारः । आ॒सऽभिः॑ । सम्ऽमि॑श्लाः । इन्द्रे॑ । म॒रुतः॑ । प॒रि॒ऽस्तुभः॑ ॥
Mantra 12
तद्व॑: सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तम्। इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वम् ॥
तत् । वः॒ । सु॒ऽजा॒ताः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । वः॒ । दा॒त्रम् । अदि॑तेःऽइव । व्र॒तम् । इन्द्रः॑ । च॒न । त्यज॑सा । वि । ह्रु॒णा॒ति॒ । तत् । जना॑य । यस्मै॑ । सु॒ऽकृते॑ । अरा॑ध्वम् ॥
Mantra 13
तद्वो॑ जामि॒त्वं म॑रुत॒: परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त। अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥
तत् । वः॒ । जा॒मि॒ऽत्वम् । म॒रु॒तः॒ । परे॑ । यु॒गे । पु॒रु । यत् । शंस॑म् । अ॒मृ॒ता॒सः॒ । आव॑त । अ॒या । धि॒या । मन॑वे । श्रु॒ष्टिम् । आव्य॑ । सा॒कम् । नरः॑ । दं॒सनैः॑ । आ । चि॒कि॒त्रि॒रे॒ ॥
Mantra 14
येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः। आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ॥
येन॑ । दी॒र्घम् । म॒रु॒तः॒ । शू॒शवा॑म । यु॒ष्माके॑न । परी॑णसा । तु॒रा॒सः॒ । आ । यत् । त॒तन॑म् । वृ॒जने॑ । जना॑सः । ए॒भिः । य॒ज्ञेभिः॑ । तत् । अ॒भि । इष्टि॑म् । अ॒श्या॒म् ॥
Mantra 15
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः। एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः । आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥