Mantra 1
मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन्। यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥
मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । परि॑ । ख्य॒न् । यत् । वा॒जिनः॑ । दे॒वऽजा॑तस्य । सप्तेः॑ । प्र॒ऽव॒क्ष्यामः॑ । वि॒दथे॑ । वी॒र्या॑णि ॥
Mantra 2
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति। सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑: ॥
यत् । निः॒ऽनिजा॑ । रेक्ण॑सा । प्रावृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति । सुऽप्रा॑ङ् । अ॒जः । मेम्य॑त् । वि॒श्वऽरू॑पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि॑ । ए॒ति॒ । पाथः॑ ॥
Mantra 3
ए॒ष च्छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः। अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥
ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः । अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥
Mantra 4
यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति। अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ॥
यद् । ह॒वि॒ष्य॑म् । ऋ॒तु॒ऽशः । दे॑व॒ऽयानम् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति । अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒ऽवे॒दय॑न् । अ॒जः ॥
Mantra 5
होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः। तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥
होता॑ । अ॒ध्व॒र्युः । आऽव॑याः । अ॒ग्नि॒म्ऽइ॒न्धः । ग्रा॒व॒ऽग्रा॒भः । उ॒त । शंस्ता॑ । सुऽवि॑प्रः । तेन॑ । य॒ज्ञेन॑ । सुऽअ॑रङ्कृतेन । सुऽइ॑ष्टेन । व॒क्षणाः॑ । आ । पृ॒ण॒ध्व॒म् ॥
Mantra 6
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति। ये चार्व॑ते॒ पच॑नं स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति । ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
Mantra 7
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः। अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥
उप॑ । प्र॑ । अ॒गा॒त् । सु॒ऽमत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना॑म् । आशाः॑ । उप॑ । वी॒तऽपृ॑ष्ठः । अनु॑ । ए॒न॒म् । विप्राः॑ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना॑म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒ऽबन्धु॑म् ॥
Mantra 8
यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य। यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ । यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥
Mantra 9
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑। यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ । यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥
Mantra 10
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑। सु॒कृ॒ता तच्छ॑मि॒तार॑: कृण्वन्तू॒त मेधं॑ शृत॒पाकं॑ पचन्तु ॥
यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ । सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥
Mantra 11
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति। मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥
यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति । मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥
Mantra 12
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑। ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
ये । वा॒जिन॑म् । प॒रि॒ऽपस्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति॑ । ये । च॒ । अर्व॑तः । मां॒स॒ऽभि॒क्षाम् । उ॒प॒ऽआस॑ते उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
Mantra 13
यन्नीक्ष॑णं मां॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि। ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥
यत् । नि॒ऽईक्ष॑णम् । मां॒स्पच॑न्याः । उ॒खायाः॑ । या । पात्रा॑णि । यू॒ष्णः । आ॒ऽसेच॑नानि । ऊ॒ष्म॒ण्या॑ । अ॒पि॒ऽधाना॑ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि॑ । भू॒ष॒न्ति॒ । अश्व॑म् ॥
Mantra 14
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः। यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः । यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥
Mantra 15
मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रि॑:। इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वास॒: प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥
मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒मऽग॑न्धिः । मा । उ॒खा । भ्राज॑न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः॑ । इ॒ष्टम् । वी॒तम् । अ॒भिऽगू॑र्तम् । वष॑ट्ऽकृतम् । तम् । दे॒वासः॑ । प्रति॑ । गृ॒भ्ण॒न्ति॒ । अश्व॑म् ॥
Mantra 16
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै। सं॒दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥
यत् । अश्वा॑य । वासः॑ । उ॒प॒ऽस्तृ॒णन्ति॑ । अ॒धी॒वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ । स॒म्ऽदान॑म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । आ । य॒म॒य॒न्ति॒ ॥
Mantra 17
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑। स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥
यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑तस्य । पार्ष्ण्या॑ । वा॒ । कश॑या । वा॒ । तु॒तोद॑ । स्रु॒चाऽइ॑व । ता । ह॒विषः॑ । अ॒ध्व॒रेषु॑ । सर्वा॑ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥
Mantra 18
चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒: समे॑ति। अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥
चतुः॑ऽत्रिंशत् । वा॒जिनः॑ । दे॒वऽब॑न्धोः । वङ्क्रीः॑ । अश्व॑स्य । स्वऽधि॑तिः । सम् । ए॒ति॒ । अच्छि॑द्रा । गात्रा॑ । व॒युना॑ । कृ॒णो॒त॒ । परुः॑ऽपरुः । अ॒नु॒ऽघुष्य॑ । वि । श॒स्त॒ ॥
Mantra 19
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः। या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥
एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒ऽश॒स्ता । द्वा । य॒न्तारा॑ । भ॒व॒तः॒ । तथा॑ । ऋ॒तुः । या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒ऽथा । कृ॒णोमि॑ । ताऽता॑ । पिण्डा॑नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥
Mantra 20
मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते। मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥
मा । त्वा॒ । त॒प॒त् । प्रि॒यः । आ॒त्मा । अ॒पि॒ऽयन्त॑म् । मा । स्वऽधि॑तिः । त॒न्वः॑ । आ । ति॒स्थि॒प॒त् । ते॒ । मा । ते॒ । गृ॒ध्नुः । अ॒वि॒ऽश॒स्ता । अ॒ति॒ऽहाय॑ । छि॒द्रा । गात्रा॑णि । अ॒सिना॑ । मिथु॑ । क॒रिति॑ कः ॥
Mantra 21
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑: सु॒गेभि॑:। हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥
न । वै । ऊँ॒ इति॑ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । हरी॑ इति॑ । ते॒ । युञ्जा॑ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उप॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥
Mantra 22
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिम्। अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥
सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्वा॒ऽपुष॑म् । र॒यिम् । अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥