Mantra 1
किमु॒ श्रेष्ठ॒: किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म। न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥
किम् । ऊँ॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म । न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥
Mantra 2
एकं॑ चम॒सं च॒तुर॑: कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम्। सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ ॥
एक॑म् । च॒म॒सम् । च॒तुरः॑ । कृ॒णो॒त॒न॒ । तत् । वः॒ । दे॒वाः । अ॒ब्रु॒व॒न् । तत् । वः॒ । आ । अ॒ग॒म॒म् । सौध॑न्वनाः । यदि॑ । ए॒व । क॒रि॒ष्यथ॑ । सा॒कम् । दे॒वैः । य॒ज्ञिया॑सः । भ॒वि॒ष्य॒थ॒ ॥
Mantra 3
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्व॒: कर्त्वो॒ रथ॑ उ॒तेह कर्त्व॑:। धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ॥
अ॒ग्निम् । दू॒तम् । प्रति॑ । यत् । अब्र॑वीतन । अश्वः॑ । कर्त्वः॑ । रथः॑ । उ॒त । इ॒ह । कर्त्वः॑ । धे॒नुः । कर्त्वा॑ । यु॒व॒शा । कर्त्वा॑ । द्वा । तानि॑ । भ्रा॒तः॒ । अनु॑ । वः॒ । कृ॒त्वी । आ । इ॒म॒सि॒ ॥
Mantra 4
च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन्। य॒दावाख्य॑च्चम॒साञ्च॒तुर॑: कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे ॥
च॒कृ॒ऽवांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । क्व॑ । इत् । अ॒भू॒त् । यः । स्यः । दू॒तः । नः॒ । आ । अज॑गन् । य॒दा । अ॒व॒ऽअख्य॑त् । च॒म॒सान् । च॒तुरः॑ । कृ॒तान् । आत् । इत् । त्वष्टा॑ । ग्नासु॑ । अ॒न्तः । नि । आ॒न॒जे॒ ॥
Mantra 5
हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः। अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥
हना॑म । ए॒ना॒न् । इति॑ । त्वष्टा॑ । यत् । अब्र॑वीत् । च॒म॒सम् । ये । दे॒व॒ऽपान॑म् । अनि॑न्दिषुः । अ॒न्या । नामा॑नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा॑ । अ॒न्यैः । ए॑नान् । क॒न्या॑ । नाम॑ऽभिः । स्प॒र॒त् ॥
Mantra 6
इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत। ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥
इन्द्रः॑ । हरी॑ । यु॒यु॒जे । अ॒श्विना॑ । रथ॑म् । बृह॒स्पतिः॑ । वि॒श्वऽरू॑पाम् । उप॑ । आ॒ज॒त॒ । ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒ऽअप॑सः । य॒ज्ञिय॑म् । भा॒गम् । ऐ॒त॒न॒ ॥
Mantra 7
निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन। सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ॥
निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ । या । जर॑न्ता । यु॒व॒शा । ता । अ॒कृ॒णो॒त॒न॒ । सौध॑न्वनाः । अश्वा॑त् । अश्व॑म् । अ॒त॒क्ष॒त॒ । यु॒क्त्वा । रथ॑म् । उप॑ । दे॒वान् । अ॒या॒त॒न॒ ॥
Mantra 8
इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम्। सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥
इ॒दम् । उ॒द॒कम् । पि॒ब॒त॒ । इति॑ । अ॒ब्र॒वी॒त॒न॒ । इ॒दम् । वा॒ । घ॒ । पि॒ब॒त॒ । मु॒ञ्ज॒ऽनेज॑नम् । सौध॑न्वनाः । यदि॑ । तत् । नऽइ॑व । हर्य॑थ । तृ॒तीये॑ । घ॒ । सव॑ने । मा॒द॒या॒ध्वै॒ ॥
Mantra 9
आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत्। व॒ध॒र्यन्तीं॑ ब॒हुभ्य॒: प्रैको॑ अब्रवीदृ॒ता वद॑न्तश्चम॒साँ अ॑पिंशत ॥
आपः॑ । भूयि॑ष्ठाः । इति॑ । एकः॑ । अ॒ब्र॒वी॒त् । अ॒ग्निः । भूयि॑ष्ठः । इति॑ । अ॒न्यः । अ॒ब्र॒वी॒त् । व॒धः॒ऽयन्ती॑म् । ब॒हुऽभ्यः॑ । प्र । एकः॑ । अ॒ब्र॒वी॒त् । ऋ॒ता । वद॑न्तः । च॒म॒सान् । अ॒पिं॒श॒त॒ ॥
Mantra 10
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेक॑: पिंशति सू॒नयाभृ॑तम्। आ नि॒म्रुच॒: शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑: पि॒तरा॒ उपा॑वतुः ॥
श्रो॒णाम् । एकः॑ । उ॒द॒कम् । गाम् । अव॑ । अ॒ज॒ति॒ । मां॒सम् । एकः॑ । पिं॒श॒ति॒ । सू॒नया॑ । आऽभृ॑तम् । आ । नि॒ऽम्रुचः॑ । शकृ॒त् । एकः॑ । अप॑ । अ॒भ॒र॒त् । किम् । स्वि॒त् । पु॒त्रेभ्यः॑ । पि॒तरौ॑ । उप॑ । आ॒व॒तुः॒ ॥
Mantra 11
उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः। अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ॥
उ॒द्वत्ऽसु॑ । अ॒स्मै॒ । अ॒कृ॒णो॒त॒न॒ । तृण॑म् । नि॒वत्ऽसु॑ । अ॒पः । सु॒ऽअ॒प॒स्यया॑ । न॒रः॒ । अगो॑ह्यस्य । यत् । अस॑स्तन । गृ॒हे । तत् । अ॒द्य । इ॒दम् । ऋ॒भ॒वः॒ । न । अनु॑ । ग॒च्छ॒थ॒ ॥
Mantra 12
स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा॑ व आसतुः। अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा॑ अब्रवीतन ॥
स॒म्ऽमील्य॑ । यत् । भुव॑ना । प॒रि॒ऽअस॑र्पत । क्व॑ । स्वि॒त् । तात्या । पि॒तरा॑ । वः॒ । आ॒स॒तुः॒ । अश॑पत । यः । क॒रस्न॑म् । वः॒ । आ॒ऽद॒दे । यः । प्र । अब्र॑वीत् । प्रो इति॑ । तस्मै॑ । अ॒ब्र॒वी॒त॒न॒ ॥
Mantra 13
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत्। श्वानं॑ व॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥
सु॒षु॒प्वांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । अगो॑ह्य । कः । इ॒दम् । नः॒ । अ॒बू॒बु॒ध॒त् । श्वान॑म् । ब॒स्तः । बो॒ध॒यि॒तार॑म् । अ॒ब्र॒वी॒त् । स॒व्ँम्व॒त्स॒रे । इ॒दम् । अ॒द्य । वि । अ॒ख्य॒त॒ ॥
Mantra 14
दि॒वा या॑न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अ॒न्तरि॑क्षेण याति। अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्त॑: शवसो नपातः ॥
दि॒वा । या॒न्ति॒ । म॒रुतः॑ । भूम्या॑ । अ॒ग्निः । अ॒यम् । वातः॑ । अ॒न्तरि॑क्षेण । या॒ति॒ । अ॒त्ऽभिः । या॒ति॒ । वरु॑णः । स॒मु॒द्रैः । यु॒ष्मान् । इ॒च्छन्तः॑ । श॒व॒सः॒ । न॒पा॒तः॒ ॥