Mantra with Swara
ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा। नव्यं॑नव्यं॒ तन्तु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वय॑: सुदी॒तय॑: ॥
ते । मा॒यिनः॑ । म॒मि॒रे॒ । सु॒ऽप्रचे॑तसः । जा॒मी इति॑ । सयो॑नी॒ इति॒ सऽयो॑नी । मि॒थु॒ना । सम्ऽओ॑कसा । नव्य॑म्ऽनव्यम् । तन्तु॑म् । आ । त॒न्व॒ते । दि॒वि । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । सु॒ऽदी॒तयः॑ ॥
Mantra without Swara
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा। नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवय: सुदीतय: ॥
ते। मायिनः। ममिरे। सुऽप्रचेतसः। जामी इति। सयोनी इति सऽयोनी। मिथुना। सम्ऽओकसा। नव्यम्ऽनव्यम्। तन्तुम्। आ। तन्वते। दिवि। समुद्रे। अन्तरिति। कवयः। सुऽदीतयः ॥ १.१५९.४
Ashtak » 2
Adhyay » 3
Varga » 2
Mantra » 4
