Mantra with Swara
न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधु॑:। शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥
न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ । शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ ग्ध ॥
Mantra without Swara
न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधु:। शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥
न। मा। गरन्। नद्यः। मातृऽतमाः। दासाः। यत्। ईम्। सुऽसमुब्धम्। अवऽअधुः। शिरः। यत्। अस्य। त्रैतनः। विऽतक्षत्। स्वयम्। दासः। उरः। अंसौ। अपि। ग्धेति ग्ध ॥ १.१५८.५
Ashtak » 2
Adhyay » 3
Varga » 1
Mantra » 5
