Mantra with Swara
को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः। जि॒गृ॒तम॒स्मे रे॒वती॒: पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चर॑न्ता ॥
कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः । जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒ऽप्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥
Mantra without Swara
को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः। जिगृतमस्मे रेवती: पुरंधीः कामप्रेणेव मनसा चरन्ता ॥
कः। वाम्। दाशत्। सुऽमतये। चित्। अस्यै। वसू इति। यत्। धेथे इति। नमसा। पदे। गोः। जिगृतम्। अस्मे इति। रेवतीः। पुरम्ऽधीः। कामऽप्रेणऽइव। मनसा। चरन्ता ॥ १.१५८.२
Ashtak » 2
Adhyay » 3
Varga » 1
Mantra » 2
