Mantra with Swara
यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः। यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥
यु॒वम् । ह॒ । गर्भ॑म् । जग॑तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ । यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती॑न् । अ॒श्वि॒नौ॒ । ऐर॑येथाम् ॥
Mantra without Swara
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः। युवमग्निं च वृषणावपश्च वनस्पतीँरश्विनावैरयेथाम् ॥
युवम्। ह। गर्भम्। जगतीषु। धत्थः। युवम्। विश्वेषु। भुवनेषु। अन्तरिति। युवम्। अग्निम्। च। वृषणौ। अपः। च। वनस्पतीन्। अश्विनौ। ऐरयेथाम् ॥ १.१५७.५
Ashtak » 2
Adhyay » 2
Varga » 27
Mantra » 5
