Mantra with Swara
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धस॑:। दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णु॒: सखि॑वाँ अपोर्णु॒ते ॥
तम् । अ॒स्य॒ । राजा॑ । वरु॑णः । तम् । अ॒श्विना॑ । क्रतु॑म् । स॒च॒न्त॒ । मारु॑तस्य । वे॒धसः॑ । दा॒धार॑ । दक्ष॑म् । उ॒त्ऽत॒मम् । अ॒हः॒ऽविद॑म् । व्र्ज॒म् । च॒ । विष्णुः॑ । सखि॑ऽवान् । अ॒प॒ऽऊ॒र्णु॒ते ॥
Mantra without Swara
तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधस:। दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णु: सखिवाँ अपोर्णुते ॥
तम्। अस्य। राजा। वरुणः। तम्। अश्विना। क्रतुम्। सचन्त। मारुतस्य। वेधसः। दाधार। दक्षम्। उत्ऽतमम्। अहःऽविदम्। व्रजम्। च। विष्णुः। सखिऽवान्। अपऽऊर्णुते ॥ १.१५६.४
Ashtak » 2
Adhyay » 2
Varga » 26
Mantra » 4
