Mantra with Swara
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुष॑:। यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥
तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । इ॒नस्य॑ । त्रा॒तुः । अ॒वृ॒कस्य॑ । मी॒ळ्हुषः॑ । यः । पार्थि॑वानि । त्रि॒ऽभिः । इत् । विगा॑मऽभिः । उ॒रु । क्रमि॑ष्ट । उ॒रु॒ऽगा॒याय॑ जी॒वसे॑ ॥
Mantra without Swara
तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुष:। यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥
तत्ऽतत्। इत्। अस्य। पौंस्यम्। गृणीमसि। इनस्य। त्रातुः। अवृकस्य। मीळ्हुषः। यः। पार्थिवानि। त्रिऽभिः। इत्। विगामऽभिः। उरु। क्रमिष्ट। उरुऽगायाय जीवसे ॥ १.१५५.४
Ashtak » 2
Adhyay » 2
Varga » 25
Mantra » 4
