Mantra with Swara
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिन्द्रा॑विष्णू सुत॒पा वा॑मुरुष्यति। या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथ॑: ॥
त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ । या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥
Mantra without Swara
त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति। या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथ: ॥
त्वेषम्। इत्था। सम्ऽअरणम्। शिमीऽवतोः। इन्द्राविष्णू इति। सुतऽपाः। वाम्। उरुष्यति। या। मर्त्याय। प्रतिऽधीयमानम्। इत्। कृशानोः। अस्तुः। असनाम्। उरुष्यथः ॥ १.१५५.२
Ashtak » 2
Adhyay » 2
Varga » 25
Mantra » 2
