Mantra with Swara
उ॒त वां॑ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः। उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥
उ॒त । वा॒म् । वि॒क्षु । मद्या॑सु । अन्धः॑ । गावः॑ । आपः॑ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः । उ॒तो इति॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः॑ । दन् । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रिया॑याः ॥
Mantra without Swara
उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः। उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥
उत। वाम्। विक्षु। मद्यासु। अन्धः। गावः। आपः। च। पीपयन्त। देवीः। उतो इति। नः। अस्य। पूर्व्यः। पतिः। दन्। वीतम्। पातम्। पयसः। उस्रियायाः ॥ १.१५३.४
Ashtak » 2
Adhyay » 2
Varga » 23
Mantra » 4
