Mantra with Swara
पी॒पाय॑ धे॒नुरदि॑तिर्ऋ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे। हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥
पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे । हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥
Mantra without Swara
पीपाय धेनुरदितिर्ऋताय जनाय मित्रावरुणा हविर्दे। हिनोति यद्वां विदथे सपर्यन्त्स रातहव्यो मानुषो न होता ॥
पीपाय। धेनुः। अदितिः। ऋताय। जनाय। मित्रावरुणा। हविःऽदे। हिनोति। यत्। वाम्। विदथे। सपर्यन्। सः। रातऽहव्यः। मानुषः। न। होता ॥ १.१५३.३
Ashtak » 2
Adhyay » 2
Varga » 23
Mantra » 3
