Mantra with Swara
आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम्। अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥
आ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । नम॑सा । देवौ॑ । अव॑सा । व॒वृ॒त्या॒म् । अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । स॒ह्याः॒ । अ॒स्माक॑म् । वृ॒ष्टिः । दि॒व्या । सु॒ऽपा॒रा ॥
Mantra without Swara
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम्। अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥
आ। वाम्। मित्रावरुणा। हव्यऽजुष्टिम्। नमसा। देवौ। अवसा। ववृत्याम्। अस्माकम्। ब्रह्म। पृतनासु। सह्याः। अस्माकम्। वृष्टिः। दिव्या। सुऽपारा ॥ १.१५२.७
Ashtak » 2
Adhyay » 2
Varga » 22
Mantra » 7
