Mantra with Swara
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः। अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑न॒: प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्त॑: ॥
अ॒न॒श्वः । ज॒तः । अ॒न॒भी॒शुः । अर्वा॑ । कनि॑क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्वऽसा॑नुः । अ॒चित्त॑म् । ब्रह्म॑ । जु॒जु॒षुः॒ । युवा॑नः । प्र । मि॒त्रे । धाम॑ । वरु॑णे । गृ॒णन्तः॑ ॥
Mantra without Swara
अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः। अचित्तं ब्रह्म जुजुषुर्युवान: प्र मित्रे धाम वरुणे गृणन्त: ॥
अनश्वः। जतः। अनभीशुः। अर्वा। कनिक्रदत्। पतयत्। ऊर्ध्वऽसानुः। अचित्तम्। ब्रह्म। जुजुषुः। युवानः। प्र। मित्रे। धाम। वरुणे। गृणन्तः ॥ १.१५२.५
Ashtak » 2
Adhyay » 2
Varga » 22
Mantra » 5
