Mantra with Swara
अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत। गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥
अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ । गर्भः॑ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । ता॒रीत् ॥
Mantra without Swara
अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत। गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥
अपात्। एति। प्रथमा। पत्ऽवतीनाम्। कः। तत्। वाम्। मित्रावरुणा। आ। चिकेत। गर्भः। भारम्। भरति। आ। चित्। अस्य। ऋतम्। पिपर्ति। अनृतम्। नि। तारीत् ॥ १.१५२.३
Ashtak » 2
Adhyay » 2
Varga » 22
Mantra » 3
