Mantra with Swara
ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्र॑: कविश॒स्त ऋघा॑वान्। त्रि॒रश्रिं॑ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥
ए॒तत् । च॒न । त्वः॒ । वि । चि॒के॒त॒त् । ए॒षा॒म् । स॒त्यः । मन्त्रः॑ । क॒वि॒ऽश॒स्तः । ऋघा॑वान् । त्रिः॒ऽअश्रि॑म् । ह॒न्ति॒ । चतुः॑ऽअश्रिः । उ॒ग्रः । दे॒व॒ऽनिदः॑ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥
Mantra without Swara
एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्र: कविशस्त ऋघावान्। त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥
एतत्। चन। त्वः। वि। चिकेतत्। एषाम्। सत्यः। मन्त्रः। कविऽशस्तः। ऋघावान्। त्रिःऽअश्रिम्। हन्ति। चतुःऽअश्रिः। उग्रः। देवऽनिदः। ह। प्रथमाः। अजूर्यन् ॥ १.१५२.२
Ashtak » 2
Adhyay » 2
Varga » 22
Mantra » 2
