Mantra with Swara
स यो वृषा॑ न॒रां न रोद॑स्यो॒: श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः। प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥
सः । यः । वृषा॑ । न॒रान् । न । रोद॑स्योः । श्रवः॑ऽभिः । अस्ति॑ । जी॒वपी॑तऽसर्गः । प्र । यः । स॒स्रा॒णः । शि॒श्री॒त । योनौ॑ ॥
Mantra without Swara
स यो वृषा नरां न रोदस्यो: श्रवोभिरस्ति जीवपीतसर्गः। प्र यः सस्राणः शिश्रीत योनौ ॥
सः। यः। वृषा। नरान्। न। रोदस्योः। श्रवःऽभिः। अस्ति। जीवपीतऽसर्गः। प्र। यः। सस्राणः। शिश्रीत। योनौ ॥ १.१४९.२
Ashtak » 2
Adhyay » 2
Varga » 18
Mantra » 2
