Mantra with Swara
नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः। प्र सू न॑यन्त गृ॒भय॑न्त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥
नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः । प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥
Mantra without Swara
नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः। प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥
नित्ये। चित्। नु। यम्। सदने। जगृभ्रे। प्रशस्तिऽभिः। दधिरे। यज्ञियासः। प्र। सु। नयन्त। गृभयन्तः। इष्टौ। अश्वासः। न। रथ्यः। ररहाणाः ॥ १.१४८.३
Ashtak » 2
Adhyay » 2
Varga » 17
Mantra » 3
