Mantra with Swara
धीरा॑सः प॒दं क॒वयो॑ नयन्ति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यम्। सिषा॑सन्त॒: पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
धीरा॑सः । प॒दम् । क॒वयः॑ । न॒य॒न्ति॒ । नाना॑ । हृ॒दा । रक्ष॑माणाः । अ॒जु॒र्यम् । सिसा॑सन्तः । परि॑ । अ॒प॒श्य॒न्त॒ । सिन्धु॑म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः॑ । नॄन् ॥
Mantra without Swara
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम्। सिषासन्त: पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥
धीरासः। पदम्। कवयः। नयन्ति। नाना। हृदा। रक्षमाणाः। अजुर्यम्। सिसासन्तः। परि। अपश्यन्त। सिन्धुम्। आविः। एभ्यः। अभवत्। सूर्यः। नॄन् ॥ १.१४६.४
Ashtak » 2
Adhyay » 2
Varga » 15
Mantra » 4
