Mantra with Swara
स॒मा॒नं व॒त्सम॒भि सं॒चर॑न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑। अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥
स॒मा॒नम् । व॒त्सम् । अ॒भि । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती । विष्व॑क् । धे॒नू इति॑ । वि । च॒र॒तः॒ । सु॒मेक्के॒ इति॑ सु॒ऽमेके॑ । अ॒न॒प॒ऽवृ॒ज्यान् । अध्व॑नः । मिमा॑ने॒ इति॑ । विश्वा॑न् । केता॑न् । अधि॑ । म॒हः । दधा॑ने॒ इति॑ ॥
Mantra without Swara
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके। अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने ॥
समानम्। वत्सम्। अभि। सञ्चरन्ती इति सम्ऽचरन्ती। विष्वक्। धेनू इति। वि। चरतः। सुमेके इति सुऽमेके। अनपऽवृज्यान्। अध्वनः। मिमाने इति। विश्वान्। केतान्। अधि। महः। दधाने इति ॥ १.१४६.३
Ashtak » 2
Adhyay » 2
Varga » 15
Mantra » 3
