Mantra with Swara
तमिद्ग॑च्छन्ति जु॒ह्व१॒॑स्तमर्व॑ती॒र्विश्वा॒न्येक॑: शृणव॒द्वचां॑सि मे। पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोति॒: शिशु॒राद॑त्त॒ सं रभ॑: ॥
तम् । इत् । ग॒च्छ॒न्ति॒ । जु॒ह्वः॑ । तम् । अर्व॑तीः । विश्वा॑नि । एकः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । पु॒रु॒ऽप्रै॒षः । ततु॑रिः । य॒ज्ञ॒ऽसाध॑नः । अच्छि॑द्रऽऊतिः । शिशुः॑ । आ । अ॒द॒त्त॒ । सम् । रभः॑ ॥
Mantra without Swara
तमिद्गच्छन्ति जुह्व१स्तमर्वतीर्विश्वान्येक: शृणवद्वचांसि मे। पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोति: शिशुरादत्त सं रभ: ॥
तम्। इत्। गच्छन्ति। जुह्वः। तम्। अर्वतीः। विश्वानि। एकः। शृणवत्। वचांसि। मे। पुरुऽप्रैषः। ततुरिः। यज्ञऽसाधनः। अच्छिद्रऽऊतिः। शिशुः। आ। अदत्त। सम्। रभः ॥ १.१४५.३
Ashtak » 2
Adhyay » 2
Varga » 14
Mantra » 3
