Mantra with Swara
युयू॑षत॒: सव॑यसा॒ तदिद्वपु॑: समा॒नमर्थं॑ वि॒तरि॑त्रता मि॒थः। आदीं॒ भगो॒ न हव्य॒: सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्त्सम॑यंस्त॒ सार॑थिः ॥
युयू॑षतः । सऽव॑यसा । तत् । इत् । वपुः॑ । स॒मा॒नम् । अर्थ॑म् । वि॒ऽतरि॑त्रता । मि॒थः । आद्त् । ईम् । भगः॑ । न । हव्यः॑ । सम् । अ॒स्मत् । आ । वोळ्हुः॑ । न । र॒श्मीन् । सम् । अ॒यं॒स्त॒ । सार॑थिः ॥
Mantra without Swara
युयूषत: सवयसा तदिद्वपु: समानमर्थं वितरित्रता मिथः। आदीं भगो न हव्य: समस्मदा वोळ्हुर्न रश्मीन्त्समयंस्त सारथिः ॥
युयूषतः। सऽवयसा। तत्। इत्। वपुः। समानम्। अर्थम्। विऽतरित्रता। मिथः। आत्। ईम्। भगः। न। हव्यः। सम्। अस्मत्। आ। वोळ्हुः। न। रश्मीन्। सम्। अयंस्त। सारथिः ॥ १.१४४.३
Ashtak » 2
Adhyay » 2
Varga » 13
Mantra » 3
