Mantra 1
प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे। अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्विय॑: ॥
प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ । अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥
Mantra 2
स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने। अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥
सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने । अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥
Mantra 3
अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नव॑: सुसं॒दृश॑: सु॒प्रती॑कस्य सु॒द्युत॑:। भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जरा॑: ॥
अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ । भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥
Mantra 4
यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑। अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥
यम् । आ॒ऽई॒रि॒रे॒ । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ । अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥
Mantra 5
न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनि॑:। अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ॑ञ्जते ॥
न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ । अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥
Mantra 6
कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भि॒: काम॑मा॒वर॑त्। चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धिय॒: शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥
कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् । चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥
Mantra 7
घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ॑ञ्जते। इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धिय॑म् ॥
घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ । इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊँ॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥
Mantra 8
अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभि॑: पाहि श॒ग्मैः। अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भि॒: परि॑ पाहि नो॒ जाः ॥
अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः । अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥